Editing
वृद्धगार्गीयवास्तुविद्या
Jump to navigation
Jump to search
Warning:
You are not logged in. Your IP address will be publicly visible if you make any edits. If you
log in
or
create an account
, your edits will be attributed to your username, along with other benefits.
Anti-spam check. Do
not
fill this in!
वृद्धगार्गीयं वास्तुशास्त्रम् अथवा वृद्धगार्गीयवास्तुविद्या अथवा वृद्धगर्गवास्तु अथवा गर्गवास्तु इति नाम, काचित् प्राचीना वास्तुशास्त्रपरम्परा । Authored by .वारिजा अडिगा == वृद्धगार्गीयवास्तुविद्या== वास्तुविद्या इति भारतवर्षस्य वेदाङ्गज्योतिषे अन्तर्भूय विद्यमाना प्राचीना विद्या। अस्माकं भारतवर्षे विश्वकर्मप्रभृतयः अष्टादश वास्तुविद्याप्रणेतारः प्रसिद्धाः सन्ति। यथा मत्स्यपुराणे उल्लिखितम् -
भृगुरत्रिर्वशिष्ठश्च विश्वकर्मा मयस्तथा । नारदो नग्नजिच्चैव विशालाक्षः पुरन्दरः ।।
ब्रह्माकुमारो नन्दीशः शौनको गर्ग एव च।वासुदेवोऽनिरुद्धश्च तथा शुक्रबृहस्पती ।।
अष्टादशैते विख्याता वास्तुशास्त्रोपदेशकाः।सङ्क्षेपेणोपदिष्टन्तु मनवे मत्स्यरूपिणा ।। (मत्स्यपुराणम् २५२/ २-४)
एतेषु वास्तुविद्याप्रणेतृषु अन्यतमस्य गर्गऋषेः वास्तुविद्याग्रन्थः वृद्धगार्गीयवास्तुविद्याख्यः अत्र प्रस्तूयते।
== किं नाम वास्तु, वस्तूनाम् उत्पत्तिः कथम्?== वास्तु शब्दस्य अर्थः वस्तु वसति वा इति भावे परिगण्यते।
एकार्णवे पुरालोके प्रनष्टग्रहभास्करे॥ जघान तौ महादैत्यौ हरिर्नारायणः प्रभुः॥३५॥
तयोस्तन्मेदसाच्छन्नं सर्वमम्भः समन्ततः॥ येन नाम्ना वसुमती मेदिनीत्युच्यते बुधैः॥३६॥
ततः स भगवान् देवो महात्मा परमव्ययः॥प्रजासर्गार्थ संसृज्य लोकत्रयमरिन्दमः॥३७॥
सृष्ट्वा लोकत्रयं पुण्यं वेदाँश्चैव सनातनान्॥यज्ञानुत्पादयामास विविधान् स्वर्गसंक्रमान्॥३८॥
ततो यज्ञप्रसूत्यर्थमसृज(त्) वस्तु निश्चयम्॥लोकानां ……..लोके स्वयम्भुवि॥ ३९॥
विस्तरस्य प्रसूति द्विविधा विज्ञेया वास्तुकर्मणि॥ससोमाचाप्यसौमान तृतीयानोपपद्यते॥४०॥ ( वृद्धगर्गवास्तुविद्या प्रथमोऽध्यायः) यद्यपि एतैः श्लोकैः वस्तु नाम यज्ञोपयोगी पदार्थः इति अभिधीयते, किन्तु निवसनत्वेन वास्तु सूचयति ग्रन्थस्य सारः। ( अत्र यज्ञस्य परिभाषा का इति न स्पष्टा। ससोमा, असोमा कथं सङ्गच्छते इति अपि न स्पष्टम्।) == कः वृद्धगर्गः?== गर्गस्य उल्लेखः बहुषु ग्रन्थेषु प्राप्यते। ऋग्वेदे गर्गः मन्त्रद्रष्टा। गर्गसंहितायाः प्रणेता गर्गः। श्रीकृष्णस्य पितुः नन्दगोपालस्य आचार्यः गर्गाचार्यः इत्यपि गर्गः प्रसिदः। पुनश्च महाभारते वृद्धगर्गः कश्चन ज्योतिषशास्त्रज्ञः इति अपि उल्लिखितो वर्तते। वराहमिहिरः, भट्टोत्पलः, नीलकण्ठः आदयः स्वीयग्रन्थेषु वृद्धगर्गस्य गर्गस्य वा उल्लेखं ज्योतिषशास्त्रप्रणेतृरूपेण ददुः। गार्गियवास्तुविद्या तत्र केषुचन श्लोकेषु एव वर्तते। तत्र गर्गः वृद्धगर्गः च नामद्वयं दरीदृश्यते। अतः अस्मिन् निबन्धस्य गर्गः कः इति स्पष्टतया चेतुं न शक्यते। गार्गीयपरम्परायाः वृद्धगर्गः कश्चन वास्तुविद्याप्रणेता इति परिगणनाय क्लेशः न स्यात्। सः एव मत्स्यपुराणे उल्लिखितेषु अष्टादशवास्तुप्रणेतृषु गर्गः वा तस्य परम्परागतः गर्गः स्यात्। == वृद्धगर्गवास्तुविद्यायाः स्रोतः== नेपाल-राष्ट्रीय-अभिलेखात् (Nepal Archives Library, Kathmandu) प्राप्तं मातृकाद्वयं वृद्धगर्गवास्तुविद्यां प्रकटीकरोति। संस्कृतभाषायां देवनागरीलिपौ वृद्धगर्गसंहिता इति नाम्नि No. S-1099 (Reel A 428/27) मातृका, भूजिमोललिपौ, संस्कृतभाषायाः मातृका - (Reel No.1075/3) वास्तुशास्त्रमिति शीर्षिकया वर्तते। == वृद्धगर्गवास्तुविद्यायाः देशकालनिर्णयः== अस्मिन् ग्रन्थे लेखकस्य नाम, कृतेः देशः कालः च स्पष्टतया न निर्देशिताः। निबन्धस्य आरम्भे यः श्लोकः वर्तते, सः अयं ग्रन्थः भारतस्य उत्तरीयप्रदेशस्य अस्ति इति सूचयति -
रम्ये हिमवतः पार्श्वे सिद्धचारणसेविते॥पुरासीदाश्रमस्थानं नदीभागीरथीतटे॥१॥
पुनश्च यद्यपि प्रासादसूत्राध्याये मगधः, कौशलः, अवन्तिः इत्यादिनि नामानि यानि वर्तन्ते तानि नामानि केवलं प्रासादस्य प्रकारं विवृण्वन्ति। अयं बृहदध्यायः ग्रन्थस्य प्रारम्भिकाध्यायेभ्यः भिन्नः दृश्यते। प्रारम्भिकाध्यायेषु ईदृशानि विवरणानि न लभ्यन्ते। सरलव्यवस्थाः केवलं तत्र सन्ति। अतः अयं ग्रन्थः वा परम्परा भारतवर्षस्य गङ्गातीरस्य प्रदेशस्य इति ऊहनीयम्।
तथैव कालस्य निर्णयाय अपि साक्षात् वाक्यानि न सन्ति। सामन्यतया शुभाशुभकालनिर्णये पञ्चाङ्गे यत् नक्षत्रं, तिथिः, करणं, मुहूर्तः, वारः चेत्यादीनां प्रयोगः शालिवाहनशकस्य चतुर्थे शतके आरभत। किन्तु अस्मिन् ग्रन्थे करणं, वारः चापि न वर्तेते। अतः कौटिल्यस्य अर्थशास्त्रं, भरतनाट्यशास्त्रम् इत्यादिनां समकालिकः वषयोऽयम्, अथवा तस्मात् पूर्वकालिकः विषयः इति अनुमीयते। कौटिल्यस्य अर्थशास्त्रं शालिवाहनशकात् पूर्वं चतुर्थे शतके इति इतिहासात् प्रमाणम्। किन्तु एतस्य ग्रन्थस्य दिग्दर्शनाध्याये (चतुर्थाध्याये) दिक्निर्णयाय प्रयुज्यमानः विधिः वैदिकशुल्बसूत्रेभ्यः उद्धृतः इति स्पष्टतया ज्ञायते। अतः अयं आरम्भिकाध्यायाः शालिवाहनशकात् पूर्वं पञ्चके शतके इति वक्तुं शक्यते। ऊनत्रिंशतिमोऽध्यायात् पराणां अध्यायाः विषयपरिपक्वत्वाद् भिन्नकालिकाः इति अनुमानः। तेषु अध्यायेषु गर्गस्य नामापि नागच्छति। कालक्रमेण सङ्कलिताः ते अध्यायाः इति तस्मात् ऊहः। स्मरणीय अयं कालः ग्रन्थे प्रतिपादिताय विषयाय अस्ति न तु मातृकायै। मातृका तु नविना स्यात्। भुजिमोल लिपिः सप्तादशशतकं पर्यन्तं प्रचलिता आसीत् इति इतिहासकारस्य मतम्। == वृद्धगर्गवास्तुविद्यायाः विषयसूचिः(पुष्पिकाः)== प्रश्नाध्याये प्रथमोऽध्यायः
वास्तुविद्यायां भूमिपरीक्षा द्वितीयोऽध्यायः
दिग्ग्रहणं तृतीयः
नगरसंनिवेशे चतुर्थः
राजकुलनिवेशः पञ्चमोऽध्यायः
देवताविभागः षष्ठः
द्वारदेवतः सप्तमः
द्वारदैवतको नाम अष्टमः
द्वारगुणदोषोनाम नवमः
द्वारदोषो नाम दशमः
मापने नैमित्तिको नामैकादशमः
वास्तुशान्तिक द्वादशमः
गृहप्रवेशकर्मनाम त्रयोदशमः
नवकर्मिको नाम चतुदर्शमः
वास्तुवैकृतिको नाम पञ्चदशमः
वास्तुमध्ये निर्देशो नाम षोडशोऽध्यायः
कूपभ्रमस्थानसप्तदशमः
ब्रह्मस्थापितो नाम अष्टादशमः
वस्तुच्छेदिको नाम एकोनविंशतिमः
ब्रह्मस्थापितो नामो विंशतिमः
शालानिर्माणको नाम एकविंशतिमः
स्वानिवेशोनामद्वाविंशतिमः
द्वारछेदो नाम त्रयोविंशतिमः
छायालक्षणं नाम चतुर्विंशतिमः
नवगृहविकर्म पञ्चविंशतिमः
उच्छ्रयनिकोनाम षड्विंशतिम अध्यायः
सर्ववर्णानां सप्तविंशतिमः
प्रासादविभागो नाम अष्टाविंशोऽध्यायः
प्रासादसूत्र ऊनत्रिंशतिमोऽध्यायः
नक्षत्रयोगं नाम त्रिंशतिमः
बलिकर्मनाम एकत्रिंशतिम अध्यायः
बलिकर्मिको नाम द्वात्रिंशतिमोऽध्यायः
प्रतोलीसूत्र-त्रयस्त्रिंशतिमोऽध्यायः
द्वारनिर्देशको नाम चतुर्त्रिंशतिमः
== उपसंहारः == गर्गस्य वास्तुविद्या इति कश्चन अप्रकाशितः विषयः। नेपालदेशात् केचन मातृके लब्धे, ये वृद्धगर्गवास्तुविद्यां प्रतिपादयतः। यद्यपि उभे अपि मातृके भिन्नलिप्या लिखिते स्तः तथापि संस्कृतेन समानविषयं प्रदर्शयतः। तयोः चतुर्त्रिंशतिः (३४) अध्यायाः सन्ति। प्राचीनकाले जनानां निवासाय स्थूलतया आवाश्यकाः विचाराः प्रदर्शिताः तत्र। नगरसंरचना, राजनिवासः, द्वारस़्थापनमित्यादयः विषयः तत्र प्रतिपादितः। == ग्रन्थसम्पादनस्य इतिहासः == प्राचीनेतिहाससंशोधनकेन्द्रस्य, (जैनविश्वविद्यालयः बैङ्गलुरु) अध्यक्षः, ज्येष्ठ-प्राध्यापकः र. ना. अय्यङ्गर-महोदयः वृद्धगार्गीयज्योतिषशास्त्रस्य अनुसान्धने वृद्धगर्गसंहिताख्यस्य ग्रन्थस्य मातृकां प्राप्नोत्। एतावत्पर्यन्तं बहुषु पुस्तेकषु, शोधपत्रेषु वा गर्गः इति कश्चन ऋषिः वास्तुविद्या-प्रणेता अस्ति, किन्तु न लभ्यते तस्य मातृका इति सूचितमासीत्। र. ना. अय्यङ्गर-महोदयस्य मार्गदर्शने विश्वेऽखिले प्रथमवारमेव गर्गस्य वास्तुविद्याविषये निबन्धः प्रकाशितोऽभवत्। अत्र तस्य ग्रन्थस्य सारः एव अदीयत। जिज्ञासवः संदर्भसू्च्यां दत्तं निबन्धं द्रष्टुं शक्नुवन्ति। == संदर्भसूचिः (References) == [https://www.academia.edu/106020369/V%C4%81stuvidy%C4%81_of_Garga_Review_of_the_Manuscript_V%E1%B9%9Bddhagarga_Sa%E1%B9%81hit%C4%81_from_Nepal Vāstuvidyā of Garga;]
Summary:
Please note that all contributions to enIKSwiki are considered to be released under the Creative Commons Attribution-ShareAlike (see
Enwiki:Copyrights
for details). If you do not want your writing to be edited mercilessly and redistributed at will, then do not submit it here.
You are also promising us that you wrote this yourself, or copied it from a public domain or similar free resource.
Do not submit copyrighted work without permission!
Cancel
Editing help
(opens in new window)
Navigation menu
Personal tools
Not logged in
Talk
Contributions
Log in
Namespaces
Page
Discussion
English
Views
Read
View history
More
Navigation
Main page
Help about MediaWiki
Tools
What links here
Related changes
Special pages
Page information