Editing
दीपः (deepah)
Jump to navigation
Jump to search
Warning:
You are not logged in. Your IP address will be publicly visible if you make any edits. If you
log in
or
create an account
, your edits will be attributed to your username, along with other benefits.
Anti-spam check. Do
not
fill this in!
'''लेखकः – विद्वान् नरसिंह भट्टः '''
'''(प्रतिक्रियां दातुं शक्यते : [mailto:lekhana@ayvm.in lekhana@ayvm.in])'''
[[File:IMG-20201113-WA0054-705287.jpg|center|thumb]]
'''यः''' स्वयं दीप्यते परान् च दीपयति स दीप इत्युच्यते । अस्य विषये ज्ञानसम्पादनाय अयम् उत्तमावसर इति मन्ये । यतो हि उत्तरत्र कार्तिकमासः आगमिष्यति । अयं मासः कृत्तिकानक्षत्रसम्बद्धोऽस्ति । अस्मिन् मासे पूर्णिमायां कृत्तिकानक्षत्रं घटते इत्ययं विशेषः । कृत्तिकानक्षत्रं तु अग्निदेवताकम् । अग्निः प्रकाशस्य अपरं नामास्ति खलु । तदर्थं अस्मिन् मासे वयं दीपावलीमहोत्सवं महता उत्साहेन आचरामः । अस्मिन् मासे दीपाराधनस्यापि महत्वं विद्यते । “ज्ञात्वा कर्माणि कुर्वीत” इत्यस्ति विधिः । ज्ञानं विना कृतं कर्म कदाचित् अपेक्षितफलं न दद्यात् । सति कर्मविषयकज्ञाने आराधनाय श्रद्धा वर्धते विश्वासः जागर्ति च । अतः दीपस्य विषये अस्माकं परम्परा किं वक्ति इति विचारयामः ।
'''दीपस्य भौतिकता'''
‘दीप्यते दीपयति वा स्वं परं चेति दीपः’ इति अस्य शब्दस्य व्युत्पत्तिरस्ति । दीपस्तु द्विविधोऽस्ति तैलदीपः घृतदीपश्चेति । अनेन ज्ञायते यत् अन्यान्यस्नेहैः दीपः न ज्वालनीयः इति । इदानीं तु कुत्रचित् येन केनापि स्नेहेन दीपज्वालनं दृश्यते । परन्तु तादृशज्वालनं निषिद्धमस्ति । कालिकापुराणे दीपस्य लक्षणं दीपपात्रं वर्तिविषयः तस्य फलम् इत्यादि-विषयाः निरूपिताः । घृतदीपः अत्यन्तप्रशस्तः तैलदीपः-तिलोद्भवस्नेहयुक्तः मध्यमः अन्यदीपास्तु अधमाः इत्युक्तम् । दीपपात्रं तु “तैजसं दारवं लौहं मार्तिक्यं नारिकेलजम् । तृणध्वजोद्भवं वापि दीपमात्रं प्रशस्यते” । तैजसं-सुवर्णनिर्मितं, दारवं-वृक्षभागेन निर्मितं, लौहं- ताम्रादिप्रशस्तद्रव्यनिर्मितं, मार्तिक्यं- मृत्तिकया निर्मितं, नारिकेलवृक्षभागेन कृतं, कैश्चित् तृणविशेषैः निर्मितं दीपपात्रं प्रज्वालने प्रशस्तमिति प्रसिद्धम् । तत्रापि दीपः कथं भवेत् इति वर्ण्यते- “सुवृत्तवर्तिसस्नेहपात्रेऽभग्ने सुदर्शने । मृण्मये वृक्षकोटौ तु दीपं दद्यात् प्रयत्नतः” इति । कार्पासजां अथवा शणजां वर्तिं सम्यक् सम्पीडनं कृत्वा निर्मापयेत् । उपर्युक्तप्रशस्ते पात्रे स्नेहः घृतरूपः तैलरूपो वा भवेत् । दीपज्वाला तु सुदर्शना- द्रष्टुं बहु मनोहरं यथा भवति तथा स्यात् । अपि च स दीपः नेत्राह्लादकरः तापवर्जितः सुशिखः शब्दरहितः निर्धूमः अनतिह्रस्वः दक्षिणावर्तवर्तिः च स्यात् । एतादृशदीपेन श्रीः वर्धते । सर्वविधतुष्टिश्च जायते । कदापि दीपं मिश्रतैलेन न प्रज्वालयेत् । मिश्रतैलदीपेन श्रीः नश्यति इति प्रतीतिः अस्ति । अपि च न कदापि दीपं निर्वापयेत् । एवं गुणविशिष्टं दीपं यदा वयं प्रज्वालयामः तदा अस्माकं बाह्यान्धकारः आभ्यन्तरम् अज्ञानं चापगच्छति । अयं तु दीपस्य भौतिकविषयः । अत्र कोऽपि दैविकः आध्यात्मिकः विषयः अस्ति वा ज्ञातव्यः ।
'''दीपस्य दैविकता आध्यात्मिकता च'''
“दीपमूले स्थितो ब्रह्मा दीपमध्ये जनार्दनः । दीपाग्रे शङ्करः प्रोक्तः तस्माद्दीपं नमाम्यहम् ॥“ इति दीपे ब्रह्मविष्णुशङ्कररुपत्रिमूर्तयः अस्माभिः विभाव्यन्ते । अयं दीपः योगिनाम् अन्तर्दृष्टिगोचरः साक्षाज्ज्योतीरूपः। ‘अन्तर्ज्योतिः किमपि यमिनाम् अञ्जनं योगदृष्टेः’ इति श्रूयते च । अयं दीपः तस्य स्ववर्णेन शिखया हृन्मध्ये विराजमानं देवं स्मारयति । दीपपात्रम् अस्माकं शरीरस्य प्रतीकमस्ति । अस्माकं गुरवः श्रीरङ्गमहागुरवः सर्वदा इमां वाणीं उद्घोषयन्ति स्म “विज्ञानमन्दिरे दीपमालासहस्रम् उद्दीपयाम” इति । एवं च दीपः अस्माकं भौतिकजीवने दैविकजीवने च महोपकारी भवति । अतः वयं सर्वदा दीपज्वालनेन जीवनस्य अन्धकारं दूरीकृत्य ज्योतिषांज्योतिषि तन्मयतां प्राप्नुवाम इति आशासे ।
Summary:
Please note that all contributions to enIKSwiki are considered to be released under the Creative Commons Attribution-ShareAlike (see
Enwiki:Copyrights
for details). If you do not want your writing to be edited mercilessly and redistributed at will, then do not submit it here.
You are also promising us that you wrote this yourself, or copied it from a public domain or similar free resource.
Do not submit copyrighted work without permission!
Cancel
Editing help
(opens in new window)
Navigation menu
Personal tools
Not logged in
Talk
Contributions
Log in
Namespaces
Page
Discussion
English
Views
Read
View history
More
Navigation
Main page
Help about MediaWiki
Tools
What links here
Related changes
Special pages
Page information